Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 115, Verses 37–56

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 115, verses 37–56 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 115 · श्लोक 37

संस्कृत श्लोक

प्रोत्फुल्लकिंशुकैषा दक्षिणजलधेस्तटेऽत्र वनराजी । ज्वलितेव जलतरङ्गैः पौनःपुन्येन सिच्यतेऽम्बुधिना ॥ ३७ ॥ वास्या निर्यान्त्यनिलैर्धूमा इव कृष्णकेसराम्बुधराः । अङ्गारा इव कुसुमान्युपशान्ताङ्गारवच्च खगभृङ्गाः ॥ ३८ ॥ ईदृश्येव विलोकय वनराजी सत्यवह्निना ज्वलिता । गिरिशिरसि तूत्तरस्यां दिशि दूरे धूयते च खे पवनैः ॥ ३९ ॥ क्रौञ्चाचलस्य भुवि मन्थरमेघचक्रगम्भीरताररवनर्तितबर्हिणीयम् । पश्योत्थितं तुमुलमाकुलवर्षवातव्याधूतपुष्पफलपल्लवकाननीयम् ॥ ४० ॥ अस्ताचले विकटकाञ्चनकूटकोटिसंघट्टनस्फुटितजर्जरचारुसंधिः । खर्वं रथः पतति स स्म रवेः सचक्रचीत्कारतारतरकूबररास एषः ॥ ४१ ॥ भुवनभवनप्राकारेऽद्रौ निशाकरमेरुकं परिविकसितं मीतं भासा मलालिरुपाश्रितः । तदिह जगतां वस्तु श्रेष्ठं न किंचन विद्यते विधिरुपहतः कुर्यान्नो यत्क्षणेन कलङ्कितम् ॥ ४२ ॥ त्रिभुवनहराट्टहासो भुवनमहाभवन एष मङ्कोलः । क्षीरसलिलावपूरो गगनाब्धेश्चान्द्र आलोकः ॥ ४३ ॥ स्पृष्टप्रदोषमयमन्दरमथ्यमानचन्द्रार्णवोल्लसितदुग्धतरङ्गभङ्गैः । पश्य प्रभापटलकैः परिपूरिताङ्गीः पूरैरिवोग्रसरितः प्रसरद्भिराशाः ॥ ४४ ॥ एते पतन्त्यतुल तालकराललोलवेतालवालवलिता निशि गुह्यकौघाः । हूणेश्वरस्य नगराणि निरस्तशान्ति स्वस्तिश्रवादिविकलानि बलेन भोक्तुम् ॥ ४५ ॥ तावद्विभाति गगने परिपूर्णचन्द्रो यावद्वधूवदनमेति न सद्म बाह्यम् । अभ्युद्गतेऽङ्गणनभस्यबलाननेन्दाविन्दोः सिताभ्रशकलस्य च को विशेषः ॥ ४६ ॥ वृद्धानि चन्द्रांशुनवाम्बराणि गङ्गौघनिर्धूतशिलान्यमूनि । हिमाततान्युग्रलताजटानि तुषारशैलेश्वरमस्तकानि ॥ ४७ ॥ स एष मन्दारवनावतंसो दोलाप्सरोगेयविसारिवातः । क्वचिन्मणिद्योतविचित्रचित्रः संदृश्यते व्योमनि मन्दराद्रिः ॥ ४८ ॥ प्रोन्निद्रनीरन्ध्रशिलीन्ध्रसान्द्रपुष्पार्घ्यपात्रध्रमहामहीध्राः । सान्द्राभ्रनिर्हादगभीरकुक्षौ सर्क्षान्तरिक्षश्रियमुद्वहन्ति ॥ ४९ ॥ इतः स कैलासगिरिर्गरीयसा प्रभाप्रवाहेण मितेन यस्य खम् । शंभोरिवाभाति सुतस्य कुट्टिमं चन्द्रोऽपि च क्षीरसमुद्रगो यथा ॥ ५० ॥ स्थाणूनां छिन्नशाखानां मृन्मयानां च वासवः । संधत्ते पश्य दूराणां वातैर्मुक्तशिखा इव ॥ ५१ ॥ उन्निद्रकुड्मलदलासु वनस्थलीषु सच्छायशाद्वलघनेषु च जङ्गलेषु । ग्रामेषु संततफलद्रुमसंकुलेषु लक्ष्मीः स्वयं निवसतीव निवासहेतोः ॥ ५३ ॥ वातायनागतलतावृतसौधकोशकोशातकीकुसुमकेसरमाहरद्भिः । आगुल्फकीर्णमुकुलाजिर एष वातैग्रामो विभाति नगरं वनदेवतानाम् ॥ ५४ ॥ उन्निद्रामलचम्पकद्रुमलतादोलाविलोलाङ्गनाः कूजन्निर्झरवारयः परिसरप्रोन्निद्रतालद्रुमाः । उत्फुल्लोज्ज्वलमंजरीसितलतागेहोल्लसद्बर्हिणः पर्यन्तोन्नतसाललम्बजलदा रम्या गिरिग्रामकाः ॥ ५५ ॥ वातालोलविचित्रपत्रलतिकासंपूर्णनीलस्थलाः कूजल्लावककोककुक्कुटघटागायत्पुलिन्दाङ्गनाः । बालाव्याकुलतर्णका दधिमधुक्षीराज्यपानोज्ज्वलाः कस्येवामृतमण्डपा विरचिता रम्या गिरिग्रामकाः ॥ ५६ ॥

हिन्दी अर्थ

इस प्रदेश में पर्वत तथा वनवीथियों के समीप रति के लिए विद्याधरो द्वारा रची गई पुष्पशय्याएँ महावर की छाप से युक्त दोनों बाजुओं में स्पष्ट रीति से उठे हुए चरण चिह्न से पुरुष के रति श्रान्त होने पर अधोदेश से व्यावृत्त हुई मुग्धवनिता के पुरुष आचरणं को सूचित करती हैं