Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 106, Verses 45–63
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 106, verses 45–63 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 106 · श्लोक 45
संस्कृत श्लोक
भावाद्भावान्तरप्राप्तौ मध्ये यत्संविदो वपुः ।
तच्चिद्व्योम तदेवेदं सर्वं च स्थिति नेतरत् ॥ ४५ ॥
कार्यकारणभावादिदृशोऽविद्याविजृम्भिकाः ।
जगद्वत्कल्पयत्येष कोऽस्य पर्यनुयोगकृत् ॥ ४६ ॥
द्रष्टा भोक्ताथ कर्ता वा कश्चित्स्यादितरो यदि ।
तत्कथं किमिदं दृश्यमिति युज्येत नान्यथा ॥ ४७ ॥
यत्र स्वप्ने निराभासं चिद्व्योमैव विराजते ।
शुद्धमेकमनेकात्म तत्र किं क्व विकल्प्यते ॥ ४८ ॥
आस्वयंभुव एवेयं चिन्मात्रे भाति सर्गभाः ।
परिज्ञाता सती सा तु ब्रह्मैव भवति क्षणात् ॥ ४९ ॥
एषैव त्वपरिज्ञाता भ्रान्तिर्मायेति कथ्यते ।
जगदित्युच्यते विद्या दृश्यमित्युपवर्ण्यते ॥ ५० ॥
चिदाकाशप्रकाशेन चित्ता दृश्यपिशाचकः ।
वेतालो बालकेनेव बुद्धोऽसन्नेव सन्निव ॥ ५१ ॥
जगत्तात्मन्यसत्यापि चिद्व्योम्नैवानुभूयते ।
सत्येव साङ्गलेखेव स्वप्नेऽद्रिपुरता यथा ॥ ५२ ॥
अहमद्रिरहं रुद्रः समुद्रोऽहमहं विराट् ।
चेत्यते खे चितैवेति स्वप्नेऽद्रिपुरता यथा ॥ ५३ ॥
आकारि कारणाभावाज्जातं कार्यं न किंचन ।
महाप्रलयचिद्व्योम्नि चित्स्थितेत्थमिदन्तया ॥ ५४ ॥
अकारणकमेवेदं व्योम व्योम्नानुभूयते ।
जगदित्येव शून्याङ्गं चिन्मात्रात्म चिदात्मनि ॥ ५५ ॥
सर्व एव जडा जीर्णा दर्पणा इव जन्तवः ।
समीपगत एवान्तः कुर्वतस्तु विचारणम् ॥ ५६ ॥
तत्तत्स्वरूपमुत्सृज्य बुद्ध्वा चिन्मात्रखं जगत् ।
अश्मना चेतनेनैव स्थेयं नास्थेतरोत्तमा ॥ ५७ ॥
यथास्ते चलयद्देहं वार्यावर्तजगद्द्रवः ।
चेततीति तथा चित्त्वं स्थिता चित्तज्जगद्दृशा ॥ ५८ ॥
यथा कल्पद्रुमोऽभीष्टं कुर्याच्चिन्तामणिर्यथा ।
तथा यद्भावितं स्वान्तस्तत्पूरयति चित्क्षणात् ॥ ५९ ॥
चितिश्चिन्तामणिरिव कल्पद्रुम इवेप्सितम् ।
आशु संपादयत्यन्तरात्मनात्मनि खात्मिका ॥ ६० ॥
देशाद्देशान्तरप्राप्तौ मध्यदेशे चितेर्वपुः ।
यत्तन्मयमिदं दृश्यं कुतो द्वैतैक्यविभ्रमः ॥ ६१ ॥
चिच्छायैवं कचत्यच्छमनन्ता भास्वरोदरा ।
अङ्गरिक्तापि दृश्यान्तःशून्यता नीलतेव खे ॥ ६२ ॥
विसदृशकार्यानुभवो न भवति सहकारिकारणाभावात् ।
सर्गादावत आद्या चिदेव दृश्यं यथा स्वप्ने ॥ ६३ ॥
हिन्दी अर्थ
हे सुन्दर, जैसे स्वप्न में प्रसिद्ध नगर,
पर्वत, गृह आदि संविन्मय (चिन्मय) आकाश ही हैं वैसे ही जाग्रत में प्रसिद्ध नगर, पर्वत आदि भी
संविन्मय गगन ही है । इस प्रकार स्वप्न ओर जाग्रत विकल्पशून्य असीम अखण्ड चिन्मात्ररूप ही
सिद्ध हुए । इस प्रकार के तत्त्व के विषय में वादियों का विवाद वृथा है