Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 1, Verses 1–12

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Uttara (Liberation, Part 2), Sarga 1, verses 1–12 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (उत्तरार्ध) · सर्ग 1 · श्लोक 12

संस्कृत श्लोक

श्रीराम उवाच । नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः । कथमेतदतो ब्रह्मन्संभवत्याशु जीवतः ॥ १ ॥ श्रीवसिष्ठ उवाच । जीवतः कल्पनात्यागो युज्यते न त्वजीवतः । रूपमस्य यथातत्त्वं श्रृणु श्रवणभूषणम् ॥ २ ॥ अहंभावनमेवाहुः कल्पनं कल्पनाविदः । नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ३ ॥ पदार्थरसमेवाहुः कल्पनं कल्पनाविदः । नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ४ ॥ इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः । नभोर्थभावनं तस्य संकल्पत्याग उच्यते ॥ ५ ॥ स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः । तच्च प्रागनुभूतं च नानुभूतं च भाव्यते ॥ ६ ॥ अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् । सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते ॥ ७ ॥ सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु । अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु ॥ ८ ॥ निःसंकल्पप्रवाहेण चक्रं प्रस्पन्दते यथा । स्पन्दस्वकर्मस्वनघप्राक्संस्कारवशात्तथा ॥ ९ ॥ अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः । प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु ॥ १० ॥ ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे । असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते ॥ ११ ॥ अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा । चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः ॥ १२ ॥

हिन्दी अर्थ

यह सम्पूर्ण दुःखों को छुड़ानेवाला विचारनामक चिन्तामणि हृदय में स्थित रहते हुए भी सब मनुष्यों से त्यक्त हो रहा है