Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 90, Verses 19–26
This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 90, verses 19–26 — the original Sanskrit shloka(s) with their Hindi meaning.
निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 90 · श्लोक 19-26
संस्कृत श्लोक
सर्वत्यागमणावेवं गते कमललोचन ।
तपःकाचमणिर्दृष्टस्त्वया संकल्पचक्षुषा ॥ १९ ॥
त्वया तस्मिंस्तपस्येव दुःखे दृष्टिभ्रमोदिते ।
ग्राह्यैकभावना बद्धा जलेन्दौ शशिनो यथा ॥ २० ॥
अवासनमनासक्त्या कृतानन्ता सवासना ।
आद्यन्तमध्यविषमा दुःखायैव तपःक्रिया ॥ २१ ॥
अमितानन्दमुत्सृज्य सुसाध्यं यः प्रवर्तते ।
मिते वस्तुनि दुःसाध्ये स्वात्महा स शठः स्मृतः ॥ २२ ॥
सर्वत्यागं समारभ्य न चैष साधितस्त्वया ।
तथा दुःखैकताज्ञानबद्धेन वनसद्मनि ॥ २३ ॥
राज्यबन्धाद्विनिष्क्रम्य प्रसरदुःखपूरितात् ।
वनवासाभिधैः साधो बद्धोऽसि दृष्टबन्धनैः ॥ २४ ॥
द्विगुणा एव ते चिन्ताः शीतवातातपादयः ।
बन्धनादधिकं मन्ये वनवासमजानताम् ॥ २५ ॥
चिन्तामणिर्मया प्राप्त इत्यलं बुद्धवानसि ।
न लब्धवान्भवान्साधो स्फटिकस्यापि खण्डिकाम् ॥ २६ ॥
हिन्दी अर्थ
अभी तक आपने स्फटिक का एक टुकड़ा भी नहीं पाया