Guru's AddaGuru's Adda

Yoga Vasistha — Nirvana Prakarana Purva (Liberation, Part 1), Sarga 86, Verses 3–12

This page presents the Yoga Vasistha (Yogvashistha), Nirvana Prakarana Purva (Liberation, Part 1), Sarga 86, verses 3–12 — the original Sanskrit shloka(s) with their Hindi meaning.

निर्वाण प्रकरण (पूर्वार्ध) · सर्ग 86 · श्लोक 3-12

संस्कृत श्लोक

शिखिध्वज उवाच । अत्युदारं महार्थं च वक्षि त्वं वदतां वर । अनुभूतिमुपारूढं गूढं च परमार्थवत् ॥ ३ ॥ त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर । पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम् ॥ ४ ॥ तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे । ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव ॥ ५ ॥ तेन पद्मजपुत्रेण मुनिना नारदेन तत् । क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम् ॥ ६ ॥ चूडालोवाच । ततो निबध्नता तेन मनोमत्तमतङ्गजम् । विवेकविपुलालाने शुद्धया धीवरत्रया ॥ ७ ॥ तद्वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् । रसानां पारदादीनां दिव्यानामनुरञ्जनम् ॥ ८ ॥ मुनिना पार्श्वगे कुम्भे स्फाटिके विलसद्रुचौ । अद्भुते विद्रुताकारं चन्द्रे चन्द्र इवार्पितम् ॥ ९ ॥ तत्र शैले बृहत्कान्ते स्थूलः पार्श्वेषु चाभितः । गम्भीरकुक्षिः सुदृढश्चोपलाहननक्षमः ॥ १० ॥ संकल्पितेन क्षीरेण स कुम्भस्तेन पूरितः । अमृतापूरभिन्नेन विधिनेवामृतार्णवः ॥ ११ ॥ तत्र मासाद्गतो वृद्धिं मुनिमन्दाहुतिक्रमः । अमृताब्धौ शुभो गर्भ इन्दोरिन्दुरिवानुजः ॥ १२ ॥

हिन्दी अर्थ

प्रतिबिम्ब के सदृश बढ़ने लगा