Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 82, Verses 19–83

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 82, verses 19–83 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 82 · श्लोक 19

संस्कृत श्लोक

रूपाणि मनसो यूयं जडा एव किलाधमाः । जडे तूत्सिक्तता व्यर्थे मृगतृष्णेव वल्गति ॥ १९ ॥ असारात्मस्वरूपाणामनालोकवती सदा । अन्धानामुद्धतिर्येयं सा दृश्यायैव जायते ॥ २० ॥ चिदात्मा भगवान्सर्वं साक्षित्वेन करोम्यहम् । हतेन्द्रियगणा यूयं किं निरर्थकमाकुलाः ॥ २१ ॥ मिथ्यैव मे विवल्गन्ति नीरूपा नयनादयः । अलातचक्रप्रतिमाः सर्परज्जुभ्रमोपमाः ॥ २२ ॥ तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः । मनागपि न संबन्धो द्युपातालतलाद्रिवत् ॥ २३ ॥ भीतः पान्थ इवाहिभ्यः पुक्कसेभ्य इव द्विजः । दूरे तिष्ठति चिन्मात्रमिन्द्रियेभ्यस्त्वनामयम् ॥ २४ ॥ चित्सत्तामात्रकेणालं संक्षोभो भवतां मिथः । तिष्ठति स्वैरमादित्ये दिनकार्यवतामिव ॥ २५ ॥ चित्त चारण चार्वाक चतुर्दिक्कुक्षिभिक्षुक । श्वेव व्यर्थमनर्थाय मैवं विहर हे जगत् ॥ २६ ॥ अहं चिद्वदिति व्यर्थमसत्या तव वासना । अत्यन्तभिन्नयोरैक्यं नास्ति चिन्मनसोः शठ ॥ २७ ॥ जीवाम्येवाहमित्येषा तवाहंकारदुर्मतिः । मिथ्यैव जाता दुःखाय न सत्या सत्यवर्जिता ॥ २८ ॥ अहंकारोदये सोऽस्मीत्येतां संरब्धतां त्यज । न किंचिदपि मूर्ख त्वं किं व्यर्थं तरलायसे ॥ २९ ॥ संविच्चित्त्वमनाद्यन्तं संविदोऽन्यन्न विद्यते । देहेस्मिंस्तन्महामूर्ख किं त्वं स्याश्चित्तनामकम् ॥ ३० ॥ विषपर्यवसानेयं रसायनवदुत्थिता । भोक्तताकर्तृताशङ्का बत चित्त मुधैव हि ॥ ३१ ॥ मोपहासपदं गच्छ मूर्खेन्द्रियगणाश्रयम् । न कर्ता त्वं न भोक्ता त्वं जडोऽस्यन्येन बोध्यसे ॥ ३२ ॥ कस्त्वं भवसि भोगानां के वा भोगा भवन्ति ते । जडस्यात्मैव ते नास्ति बन्धुमित्रादि तत्कुतः ॥ ३३ ॥ यज्जडं तद्धि नास्त्वेव सदेवासत्तयान्वितम् । ज्ञत्वकर्तृत्वभोक्तृत्वमन्यत्वानामसंभवात् ॥ ३४ ॥ प्रत्यक्चेतनरूपश्चेत्त्वं तदात्मैव ते वपुः । भावाभावमयी चित्तसत्ता ते केव दुःखदा ॥ ३५ ॥ यथा कर्तृत्वभोक्तृत्वे मिथ्यैवाधिगते त्वया । मया ते हि प्रमार्ज्येते शृणु युक्त्या कथं शनैः ॥ ३६ ॥ स्वयं तावद्भवानेष जडो नास्त्यत्र संशयः । जडस्य कीदृक्कर्तृत्वं नृत्यन्तीह कथं शिलाः ॥ ३७ ॥ उपजीव चिरं तस्माच्छुद्धं तद्भागमैश्वरम् । जीवसीच्छसि हंसि त्वं वृथा यासि विवल्गसि ॥ ३८ ॥ क्रियते यत्तु यच्छक्त्या तत्तेनैव कृतं भवेत् । लुनाति दात्रं पुंशक्त्या लावकः प्रोच्यते पुमान ॥ ३९ ॥ हन्यते यस्तु यच्छक्त्या स तेनैव हतो भवेत् । निहन्ति खड्गः पुंशक्त्या हन्तैव प्रोच्यते पुमान् ॥ ४० ॥ पीयते यस्तु यच्छक्त्या पीतं तेनैव तद्भवेत् । पात्रेण पीयते पानं पाता यस्तूच्यते नरः ॥ ४१ ॥ प्रकृत्येवासि सुजडः समस्तज्ञेन बोध्यसे । तेनात्मैवात्मनात्मानं चिनोतीदं हि नो भवत् ॥ ४२ ॥ अनारतं बोधयति त्वामात्मा परमेश्वरः । बोधनीया बुधैर्मूढाः किलावृत्तिशतैरपि ॥ ४३ ॥ आत्मसत्तैव बोधैकरूपिणी स्फुरतीह हि । तयैव चित्तशब्दार्थावङ्गीकृत्य त्वया स्थितम् ॥ ४४ ॥ एवं चित्त त्वमज्ञानादात्मशक्तेरुपागतम् । ज्ञाने त्वया विगलितं तीव्रे हिममिवातपे ॥ ४५ ॥ तस्यामृतं त्वं मूढं त्वं नासि त्वं परमार्थतः । तदेवाहमिति व्यर्थमतो मास्त्वसुखाय ते ॥ ४६ ॥ असत्या चित्तकलना इन्द्रजाललता इव । विज्ञानमात्रमेवेह ब्राह्ममङ्गं विजृम्भितम् ॥ ४७ ॥ नरामरजगद्रूपैर्ब्राह्मी शक्तिरुदेत्यलम् । सामुद्रकणकल्लोलजालैर्वैलेव वल्गति ॥ ४८ ॥ चिन्मयश्चेद्भवेर्मूढ तत्तस्मात्परमात्पदात् । नित्यमव्यतिरिक्तं त्वं किमन्यत्परिशोचसि ॥ ४९ ॥ सर्वगं सर्वभावस्थं सर्वरूपं हि तत्पदम् । तत्प्राप्तौ सर्वमेवाज्ञ प्राप्तं भवति सर्वदा ॥ ५० ॥ न त्वमस्ति न देहोस्तिब्रह्मास्तीह महत्स्फुरत् । अहंत्वमिति निःस्पन्दे स्फुरत्यार्तिहि कस्य का ॥ ५१ ॥ आत्मा चेत्त्वं तदात्मैव सर्वगोऽस्तीह नेतरः । आत्मनोऽन्यज्जडत्वं चेत्तत्त्वं नास्त्यस्ति तद्वपुः ॥ ५२ ॥ आत्मैव सर्वं त्रिजगत्तदन्यत्तु न किंचन । तत्त्वं किंचित्त्वमात्मान्यद्यदि तत्त्वं न किंचन ॥ ५३ ॥ अहं त्विदमहं तन्म इति व्यर्थं किमीहसे । असद्वपुः किं स्फुरति शशशृङ्गेण को हतः ॥ ५४ ॥ तृतीया कलना नास्ति चिज्जडांशेतरा शठ । छायातपनयोर्मध्ये तृतीयेवानुरञ्जना ॥ ५५ ॥ सत्यावलोकनाज्जाते चित्तजाड्यदृशोः क्षये । संपद्यते यत्तु तज्जं स्वसंवेदनमात्रकम् ॥ ५६ ॥ तेन मूढ न कर्तृत्वं न भोक्तृत्वं तवापि हि । तदेवासि परं ब्रह्म त्यज मौर्ख्यं भवात्मवान् ॥ ५७ ॥ केवलं ज्ञत्वविषयमुपदेशार्थसिद्धये । त्वया करणभूतेन करोत्यात्मेति कथ्यते ॥ ५८ ॥ असत्स्वरूपं करणं जडं निरवलम्बनम् । निःस्पन्दनं न स्यन्देत कर्तृसंबोधनं विना ॥ ५९ ॥ अकर्तुः करणस्यास्य शक्तिः काचिन्न विद्यते । दात्रस्य लावकाभावे कर्तुं किमिव शक्तता ॥ ६० ॥ खड्गप्रहारविच्छेदक्रियायां पुंसि शक्तता । न खड्गे सुजडे चित्त सर्वाङ्गेष्वपि शक्तता ॥ ६१ ॥ तस्मान्नासि सखे कर्तृ मा व्यर्थं दुःखभाग्भव । परार्थं क्लेशिता मूर्ख प्राकृतेषु न शोभते ॥ ६२ ॥ ईश्वरो नेदृशः शोच्यो यस्त्वया सदृशो भवेत् । न च तस्य कृतेनार्थो नाकृतेनेह कश्चन ॥ ६३ ॥ गर्वात्तूपकरोम्येनमिति केवलमल्पधीः । क्लिश्यते वसतां त्वर्थो न किंचिदुपयुज्यते ॥ ६४ ॥ कर्तुर्भोगेश्वरस्यैवमर्थे चेदनुवर्तसे । तदस्य काचिन्नेच्छेह तृप्तत्वात्सर्वदैव हि ॥ ६५ ॥ अकृत्रिमावभासेन सर्वगेन चिदात्मना । एकेनैवेदमापूर्णं कल्पनैवास्ति नेतरा ॥ ६६ ॥ एकानेकावभासेन समस्तेन तदात्मना । आत्मन्येवान्तरात्मान्तः क्रियते किं किमिष्यते ॥ ६७ ॥ त्वादृशस्य तु दृष्ट्यैव क्षुब्धता जयते मुधा । आलोक्य राजमहिषीं यूनो मदमयीं तथा ॥ ६८ ॥ आत्मना सह संबद्धे चेतः कर्त्रसि सुन्दर । किंतु नास्यासि संबन्धि कुसुमस्य यथा फलम् ॥ ६९ ॥ द्वितीयेन समं यैषा तत्तावद्भवनैकता । सा संबन्धगतिः प्रोक्ता प्राग्द्वित्वादधुनैकता ॥ ७० ॥ नानाप्रकाररचना नानारूपक्रियोन्मुखी । सुखदुःखदशाऽहेतुर्भवान्नैकविधास्मृता ॥ ७१ ॥ संबन्धः समयोर्दृष्टस्तथाऽर्धसमयोरपि । न विलक्षणयोश्चान्यस्तस्मिन्सति जगत्त्रये ॥ ७२ ॥ द्रव्यान्तरगुणा द्रव्याण्याश्रयन्ति बहून्यलम् । संविदश्च्यवनं दुःखं संविदो मा च्युतो भव ॥ ७३ ॥ एतावतैकध्यानेन नित्यध्यानोऽथवात्मदृक् । अभावे दुःखदस्यान्तर्दृशा दृश्यस्य वस्तुनः ॥ ७४ ॥ संकल्पोन्मुखतां विद्धि दुःखदां संविदश्च्युतिम् । जडेषूपलभूतेषु मनोदेहेन्द्रियादिषु ॥ ७५ ॥ कीदृशी कर्तृता चित्त पुष्पं व्योम्नि कथं भवेत् । निरस्तकलना पङ्के मननध्वंसरूपिणि ॥ ७६ ॥ न चैवात्मनि कर्तृत्वं संभवत्यम्बराङ्गवत् । अयं केवलमात्मैव नानानानातयात्मनि ॥ ७७ ॥ स्फुरत्यब्धिरिवाम्भोभिः फेनबुद्बुदवीचिभिः । आभासमात्रे सर्वस्मिन्स्फुरत्यस्मिंश्चिदात्मनि ॥ ७८ ॥ द्वितीया नास्ति कलना तप्ताङ्गार इवाम्बुधौ । कलनारहिते देवे देहे मनसि वा जडे ॥ ७९ ॥ संवित्संवेद्यनिर्मुक्ता सारं सुन्दर नेतरत् । इदमन्यदिदं नान्यच्छुभं वाऽशुभमेव च ॥ ८० ॥ इत्यसत्कल्पना नास्ति यथा नभसि काननम् । संवेद्यरहितं संविन्मात्रमेवेदमाततम् । तत्रायमहमन्योऽयमित्यसत्कलना कथम् ॥ ८१ ॥ अनादिमति नीरूपे सर्वगे विततात्मनि । आरोपयेत्कः कलनामृग्वेदं व्योम्नि को लिखेत् ॥ ८२ ॥ नित्योदिते सकलवस्तुपदार्थसारे संवित्स्थिते भरितनिर्भरभूरिदिक्कम् । आत्मन्यसत्यमिव साधु गतेऽमलत्वात् क्षीणौ सुखासुखलवौ मम वै स मोहः ॥ ८३ ॥

हिन्दी अर्थ

जिनका मान ओर मद गलित हो चुका है,जिनका अन्तःकरण प्रमुदित है, जिनकी शरद्‌ ऋतु से समन्वित चन्द्रमा की नाई प्रसन्न मुख कान्ति है और जो प्राप्त हुए शास्त्रानुमोदित व्यवहारो में विहार करनेवाले हैं,ऐसे असीम बुद्धिवाले महापुरुष इस संसार में सुखपूर्वक विचरण करते हैं