Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 80, Verses 20–49
This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 80, verses 20–49 — the original Sanskrit shloka(s) with their Hindi meaning.
उपशम प्रकरण · सर्ग 80 · श्लोक 20
संस्कृत श्लोक
तिष्ठ वा गच्छ वा चित्त नासि मे न च जीवसि ।
प्रकृत्यासि मृतं नित्यं विचारात्सुमृतं स्मृतम् ॥ २० ॥
निस्तत्त्वं त्वं जडं भ्रान्तं शठं नित्यमृताकृते ।
मूढ एव त्वयाज्ञेन बाध्यो न प्रविचारवान् ॥ २१ ॥
वयमज्ञातवन्तस्त्वां मौर्ख्येणाशु मृतं भवत् ।
मृतमस्माकमद्यासि दीपानां तिमिरं यथा ॥ २२ ॥
शठेन भवता दीर्घकालं देहगृहं मम ।
उपरुद्धमभूत्सर्व साधुसंसर्गवर्जितम् ॥ २३ ॥
जडे प्रेतसमाकारे गते त्वयि मनःशठे ।
सर्वसज्जनसंसेव्यमिदं देहगृहं मम ॥ २४ ॥
पूर्वमेवासि नासीस्त्वं संप्रत्येव शठं जगत् ।
न भविष्यसि चेदानीं वेताल किं न लज्जसे ॥ २५ ॥
सह तृष्णापिशाचीभिः सह कोपादिगुह्यकैः ।
निर्गच्छ चित्तवेताल शरीरसदनान्मम ॥ २६ ॥
दिष्ट्या विवेकमात्रेण निर्गतो देहमन्दिरात् ।
प्रमत्तश्चित्तवेतालः कुवृकः कन्दरादिव ॥ २७ ॥
अहो नु चित्रं सुमहज्जडेन क्षणभङ्गिना ।
मनःशठेन सर्वोऽयं नीतो विवशतां जनः ॥ २८ ॥
कस्ते पराक्रमः किं ते बलं कस्ते समाश्रयः ।
यदि वल्गसि मामेकं जनानां बाधसे मृतम् ॥ २९ ॥
सर्वथैवासि न मया दीनचित्तक मार्यसे ।
मृतमित्यवबुद्धं त्वमद्य केवलमज्ञ हे ॥ ३० ॥
एतावन्तमहं कालं त्वां ज्ञात्वा जीवदास्थिति ।
श्लिष्टः प्रभूतसङ्गासु चिरं संसृतिरात्रिषु ॥ ३१ ॥
चित्तं मृतं हि नास्तीदमित्यद्याधिगतं मया ।
तेन त्वदाशां संत्यज्य तिष्ठाम्यात्मनि केवलम् ॥ ३२ ॥
दिष्ट्या चित्तं मृतमिति ज्ञातमद्य मया स्वयम् ।
न शठेन समं नेयं समग्रं जीवितं निजम् ॥ ३३ ॥
उत्सार्य देहसदनान्मनःशठमहं क्षणात् ।
अहं स्वस्थः स्थितोऽस्म्यन्तर्वेतालपरिवर्जितः ॥ ३४ ॥
चित्तवेताललब्धेन चिरं कालं मयात्मना ।
कृताविकाराविविधाः स्वयं स्मृत्वा हसाम्यहम् ॥ ३५ ॥
चिरान्निपातितो दिष्ट्या विचारासिपरार्दितः ।
हृद्गेहाच्चित्तवेतालस्तालोत्तालसमुन्नतिः ॥ ३६ ॥
प्रशान्ते चित्तवेताले पवित्रां पदवीं गते ।
दिष्ट्या शरीरनगरे सुखं तिष्ठामि केवलम् ॥ ३७ ॥
मृतं मनो मृता चिन्ता मृतोऽहंकारराक्षसः ।
विचारमन्त्रेण समः स्वस्थस्तिष्ठामि केवलम् ॥ ३८ ॥
किं मनो मे ममाशा का को मेऽहंकारको भवेत् ।
दिष्ट्या व्यर्थं कलत्रं मे नष्टमेतदशेषतः ॥ ३९ ॥
एकस्मै कृतकृत्याय नित्याय विमलात्मने ।
निर्विकल्पचिदाख्याय मह्यमेव नमो नमः ॥ ४० ॥
न शोकोऽस्ति न मोहोऽस्ति न चैवाहमहं स्वयम् ।
नच नाहं नचान्योऽहं मह्यमेव नमो नमः ॥ ४१ ॥
न ममाशा न कर्माणि न संसारो न कर्तृता ।
न भोक्तृता न देहो मे मह्यमेव नमो नमः ॥ ४२ ॥
नाहमात्मा न वा कोऽन्यो नाहमस्मि न चेतरः ।
सर्वमेवाहमेतस्मै मह्यमेव नमो नमः ॥ ४३ ॥
अहमादिरहं धाता चिदहं भुवनान्यहम् ।
मम नास्ति व्यवच्छेदो मह्यमेव नमो नमः ॥ ४४ ॥
निर्विकाराय नित्याय निरंशाय महात्मने ।
सर्वस्मै सर्वकालाय मह्यमेव नमो नमः ॥ ४५ ॥
नीरूपाय निराख्याय प्रकाशाय महात्मने ।
स्वयमात्मैकसंस्थाय मह्यमेव नमो नमः ॥ ४६ ॥
समां सर्वगतां सूक्ष्मां जगदेकप्रकाशिनीम् ।
सत्तामुपगतोऽस्म्यन्तर्मह्यमेव नमो नमः ॥ ४७ ॥
साद्र्यब्ध्युर्वी नदी सेयं नाहमेवाहमेव वा ।
जगत्सर्वं पदार्थाढ्यं मह्यमेव नमो नमः ॥ ४८ ॥
व्यपगतमननं समाभिरामं प्रकटितविश्वमविश्वमप्यनन्तम् ।
स्वयमजमजरं गुणादतीतं वपुरहमच्युतमीश्वरं नमामि ॥ ४९ ॥
हिन्दी अर्थ
हे श्रीरामजी, जैसे अनेकविध
सरोवरो मेँ जल, फेन आदि जल से पृथक् नहीं हैं, वैसे ही (दृश्य ब्रह्म से पृथक् नहीं हैं) केवल कल्पनाओं
में यानी विकल्पात्मक बुद्धि में ही नानात्व है, वास्तव में नानात्व नहीं है, इस प्रकार विवेकपूर्वक भली
प्रकार अर्थ को जान लेनेवाला उक्त एकविध निश्चय प्रधान पुरुष आत्यन्तिक चित्त विनाश के कारण
विमुक्त है, ऐसा कहा जाता है