Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 78, Verses 44–55
This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 78, verses 44–55 — the original Sanskrit shloka(s) with their Hindi meaning.
उपशम प्रकरण · सर्ग 78 · श्लोक 44
संस्कृत श्लोक
विकल्पबहुलास्त्वेते स्वाभ्यासेन समाधयः ।
परमोपशमायाशु संप्रयान्त्यविकल्पताम् ॥ ४४ ॥
आत्मारामो वीतशोको भवत्यन्तःसुखः पुमान् ।
अभ्यासादेव नान्यस्मात्तस्मादभ्यासवान्भव ॥ ४५ ॥
अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते ।
मनः प्रशममायाति निर्वाणमवशिष्यते ॥ ४६ ॥
वासनावलितं जन्म मोक्षं निर्वासनं मनः ।
प्राणं च राम गृह्णाति यथेच्छसि तथा कुरु ॥ ४७ ॥
प्राणस्पन्दो मनोरूपं तस्मात्संसृतिविभ्रमः ।
तस्मिन्नेव शमं याते दीयते संसृतिज्वरः ॥ ४८ ॥
विकल्पांशक्षयाज्जन्तोः पदं तदवशिष्यते ।
यतो वाचो निवर्तन्ते समस्तकलनान्विताः ॥ ४९ ॥
यत्र सर्वं यतः सर्वे यत्सर्वं सर्वतश्च यत् ।
यत्र नेदं यतो नेदं यन्नेदं नेदृशं जगत् ॥ ५० ॥
विनाशित्वाद्विकल्पत्वाद्गुणित्वान्निर्गुणात्मनः ।
यस्य नो सदृशो दृष्टो दृष्टान्तः कश्चिदेव हि ॥ ५१ ॥
स्वादनी सर्वशालीनां दीपिका सर्वतेजसाम् ।
कलना सर्वकामानामन्तश्चिच्चन्द्रिकोदिता ॥ ५२ ॥
यस्मात्कल्पतरोर्बह्व्यः संसारफलपङ्क्तयः ।
अनारतं बहुरसा जायन्ते च पतन्ति च ॥ ५३ ॥
तत्पदं सर्वसीमान्तमवलम्ब्य महामतिः ।
यः स्थितः स्थिरधीस्तज्ज्ञः स जीवन्मुक्तउच्यते ॥ ५४ ॥
विगतसर्वसमीहितकौतुकः समुपशान्तहिताहितकल्पनः ।
सकलसंव्यवहारसमाशयो भवति मुक्तमनाः पुरुषोत्तमः ॥ ५५ ॥
हिन्दी अर्थ
हे श्रीरामजी,
आत्मा से पृथक् कुछ भी पदार्थ नहीं है, इस प्रकार की दृढ़ भावना के कारण यानी निश्चल निश्चय के
कारण समस्त दृश्य पदार्थो के संकल्पविकल्प के त्यागपूर्वक व्यापक ब्रह्मैकस्वभाव महात्मा तत्त्ववित्
नित्यतृप्त तथा अपने निरतिशयानन्द-स्वरूप से आनन्दवान् होकर जाग्रत ओर स्वप्न में यथा प्राप्त
अर्थो के आलोचनमात्ररूप चित्त के प्रति स्थित रहता है, उसका विलय होने पर सुषुप्ति में सोता है और
जब तकं प्रारब्ध कर्मो का क्षय नहीं होता, तब तक जीवित रहता हे