Guru's AddaGuru's Adda

Yoga Vasistha — Upashama Prakarana (Dissolution), Sarga 24, Verses 55–64

This page presents the Yoga Vasistha (Yogvashistha), Upashama Prakarana (Dissolution), Sarga 24, verses 55–64 — the original Sanskrit shloka(s) with their Hindi meaning.

उपशम प्रकरण · सर्ग 24 · श्लोक 55-62

संस्कृत श्लोक

विषयाकलितानन्दमनन्तोदेति निर्वृतिः । न कदाचन जीवानामात्मविश्रवणादृते ॥ ५५ ॥ यज्ञदानतपस्तीर्थसेवाभिर्जायते सुखम् । न तपोभिर्न दानेन न तीर्थैरपि जायते ॥ ५६ ॥ भोगेषु विरतिर्जन्तोः स्वभावालोकनादृते । कयाचिदपि नो युक्त्या बुद्धिरात्मावलोकने ॥ ५७ ॥ स्वप्रयत्नादृते पुंसः श्रेयसे संप्रवर्तते । भोगसंत्यागसंप्राप्तपरमार्थादृते सुत ॥ ५८ ॥ न ब्रह्मपदविश्रान्तिसुखमासाद्यते परम् । आब्रह्मस्तम्बपर्यन्ते जगत्यस्मिन्न कुत्रचित् ॥ ५९ ॥ तद्वदाश्वस्यते भाते परमे कारणे यथा । पौरुषं यत्नमाश्रित्य दैवं कृत्वा सुदूरतः ॥ ६० ॥ भोगान्विगर्हयेत्प्राज्ञः श्रेयोद्वारदृढार्गलान् । प्रौढायां भोगगर्हायां विचार उपजायते ॥ ६१ ॥ वृद्धायां प्रावृषि श्रीमांशरत्काल इवामलः । विचारो भोगगर्हातो विचाराद्भोगगर्हणम् ॥ ६२ ॥ अन्योन्यमेते पूर्येते समुद्रजलदाविव । भोगगर्हाविचारश्च स्वात्मालोकश्च शाश्वतः ॥ ६३ ॥ अन्योन्यं साधयन्त्यर्थं सुस्निग्धाः सुहृदो यथा । पूर्वं दैवमनादृत्य पौरुषेण प्रयत्नतः ॥ ६४ ॥

हिन्दी अर्थ

शरत्काल उत्पन्न होता है