Guru's AddaGuru's Adda

Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 27, Verses 34–56

This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 27, verses 34–56 — the original Sanskrit shloka(s) with their Hindi meaning.

उत्पत्ति प्रकरण · सर्ग 27 · श्लोक 34-56

संस्कृत श्लोक

लीलोवाच । एवमेतज्जगन्मातर्मया स्मृतमिहाधुना । ममेदं राजसं जन्म न तमो न च सात्त्विकम् ॥ ३४ ॥ ब्रह्मणस्त्ववतीर्णाया अष्टौ जन्मशतानि मे । नानायोनीन्यतीतानि पश्यामीवाधुना पुनः ॥ ३५ ॥ संसारमण्डले देवि कस्मिंश्चिदभवं पुरा । लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना ॥ ३६ ॥ दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता । संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी ॥ ३७ ॥ कदम्बकुन्दजम्बीरकरञ्जवनवासिनी । पत्राम्बरधरा श्यामा शबर्यहमथाभवम् ॥ ३८ ॥ वनवासनया मुग्धा संपन्नाहमथोद्धता । गुलुच्छनयना पत्रहस्ता वनविलासिनी ॥ ३९ ॥ पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता । वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः ॥ ४० ॥ अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः । राजाहमभवं श्रीमान्सुराष्ट्रेषु समाः शतम् ॥ ४१ ॥ तालीनां तलकच्छेषु राजदुष्कृतदोषतः । नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम् ॥ ४२ ॥ वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया । मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया ॥ ४३ ॥ विहंग्या वैरविन्यस्ता वागुरा विपिनावनौ । क्लेशेन महता च्छिन्ना अधमा वासना इव ॥ ४४ ॥ कर्णिकाक्रोडशय्यासु विश्रान्तमलिना सह । पद्मकुड्मलकोशेषु भुक्तकिंजल्कया रहः ॥ ४५ ॥ भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया । वनस्थलीषु रम्यासु किराताहतमर्मया ॥ ४६ ॥ दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया । मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम् ॥ ४७ ॥ पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् । पुलिन्द्या सुरतान्तेषु नालिकेररसासवम् ॥ ४८ ॥ सारसीसरसालिन्या सीत्कारमधुरस्वरम् । सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः ॥ ४९ ॥ तालीतमालकुञ्जेषु तरलानननेत्रया । क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम् ॥ ५० ॥ कनकस्यन्दसंदोहसुन्दरैरङ्गपञ्जरैः । स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः ॥ ५१ ॥ मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले । कल्पद्रुमवने मेरौ यूना सह रतं कृतम् ॥ ५२ ॥ कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च । वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् ॥ ५३ ॥ तरत्तारतरङ्गासु दोलनं सरसालिनाम् । चलच्छदपटालीषु राजहंस्यं मया कृतम् ॥ ५४ ॥ शाल्मलीदललोलानामान्दोलनदरिद्रताम् । मशकस्य मयालोक्य दीनं मशकया स्मितम् ॥ ५५ ॥ तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचुम्बनैः । भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया ॥ ५६ ॥

हिन्दी अर्थ

अवस्था देखकर, यद्यपि मैं हँसी थी तथापि उस मच्छर की दयनीय दशा के संस्कार से ही मैं मरी अतएव मच्छर बनकर दीन हीन दशा में मुझे रहना पड़ा, क्योकि प्राणी जिस जिस भाव का स्मरण करते हुए प्राण त्याग करता है, उसकी वासना से वासित होकर वह उसी भाव को प्राप्त होता है, ऐसा भगवान्‌ का वचन है । तदुपरान्त मैंने जलवेतस्‌ की लीला से यानी जलवेतस्‌ की योनि में बड़ी बड़ी लहरियों से व्याप्त पर्वतीय नदियों में चपल तरंगों के अग्रभाग के चुम्बन द्वारा भ्रमण किया