Guru's AddaGuru's Adda

Yoga Vasistha — Utpatti Prakarana (Creation), Sarga 19, Verses 2–28

This page presents the Yoga Vasistha (Yogvashistha), Utpatti Prakarana (Creation), Sarga 19, verses 2–28 — the original Sanskrit shloka(s) with their Hindi meaning.

उत्पत्ति प्रकरण · सर्ग 19 · श्लोक 2-28

संस्कृत श्लोक

वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी । नाम्ना त्वरुन्धती भार्या भूमिव्योमन्यरुन्धती ॥ २ ॥ वित्तवेषवयःकर्मविद्याविभवचेष्टितैः । समैव साप्यरुन्धत्या नतु चेतनसत्तया ॥ ३ ॥ अकृत्रिमप्रेमरसा विलासालसगामिनी । सास्य संसारसर्वस्वमासीत्कुमुदहासिनी ॥ ४ ॥ स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले । कदाचिदुपविष्टः सन्ददर्शाधो महीपतिम् ॥ ५ ॥ समग्रपरिवारेण यान्तमाखेटकेच्छया । महता सैन्यघोषेण मेरोरिव बिभित्सया ॥ ६ ॥ चामरैः कीर्णचन्द्रांशुपताकाभिर्लतावनम् । कुर्वाणं खं सितच्छत्रमण्डलै रूप्यकुट्टिमम् ॥ ७ ॥ अश्वपादूस्वनत्क्ष्माजरेणुपूरावृताम्बरम् । हास्तिकोत्तम्भितकरवाताट्टालकगोपितम् ॥ ८ ॥ महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् । कचत्काञ्चनमाणिक्यहारकेयूरमण्डलम् ॥ ९ ॥ तमालोक्य महीपालमिदं चिन्तितवानसौ । अहो नु रम्या नृपता सर्वसौभाग्यभासिता ॥ १० ॥ पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः । कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः ॥ ११ ॥ कदा मे वायवः कुन्दमकरन्दसुगन्धयः । पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान् ॥ १२ ॥ कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् । इन्दूदयावदातानि कदा कुर्यां मुखान्यहम् ॥ १३ ॥ इत्थं ततःप्रभृत्येष विप्रः संकल्पवानभूत् । स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः ॥ १४ ॥ हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता । जले जर्जरितेवाथ जरा द्विजमुपाययौ ॥ १५ ॥ आसन्नमरणस्याथ भार्या म्लानिमुपाययौ । तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः ॥ १६ ॥ मामथाराधितवती सा ततस्त्वमिवाङ्गना । अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम् ॥ १७ ॥ देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे । मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया ॥ १८ ॥ अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ । तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः ॥ १९ ॥ संपन्नः प्राक्तनानल्पसंकल्पवशतः स्वयम् । आकाशवपुरेवैष पतिः परमशक्तिमान् ॥ २० ॥ प्रभावजितभूपीठः प्रतापाक्रान्तविष्टपः । कृपापालितपातालस्त्रिलोकविजयी नृपः ॥ २१ ॥ कल्पाग्निररिवृक्षाणां स्त्रीणां मकरकेतनः । मेरुर्विषयवायूनां साध्वब्जानां दिवाकरः ॥ २२ ॥ आदर्शः सर्वशास्त्राणामर्थिनां कल्पपादपः । पादपीठं द्विजाग्र्याणां राकाधर्मामृतत्विषः ॥ २३ ॥ स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि । तस्मिन्द्विजे शवीभूते भूताकाशशरीरिणि ॥ २४ ॥ सा तस्य ब्राह्मणी भार्या शोकेनात्यन्तकर्शिता । शुष्केव माषशिम्बीका हृदयेन द्विधाभवत् ॥ २५ ॥ भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः । आतिवाहिकदेहेन भर्तारं समुपाययौ ॥ २६ ॥ नदीनिखातमिव तं भर्तारमनुसृत्य सा । आजगाम विशोकत्वं सा वासन्तीव मञ्जरी ॥ २७ ॥ तत्रास्य विप्रस्य गृहाणि सन्ति भूस्थावरादीनि धनानि सन्ति । अद्याष्टमं वासरमाप्तमृत्योर्जीवो गिरिग्रामककन्दरस्थः ॥ २८ ॥

हिन्दी अर्थ

शोक से अत्यन्त कृश हो गयी अतएव सूखी हुई उडद की छीमी के समान उसके हृदय के दो डुकड़े हो गये । पति के साथ मरी हुई वह ब्राह्मणी अपने देह का परित्याग कर परलोक पहुँचाने में समर्थ मानस शरीरसे पतिके पास पहुँच गई । जैसे नदी नीची भूमि में पहुँचती है, वैसे ही अपने पति के पास पहुँचकर वसन्त ऋतु में उत्पन्न हुई मंजरी के समान वह शोक रहित (प्रफुल्लित) हो गई । उस पर्वतग्राम में मरे हुए इस ब्राह्मण के घर हैं, भूमि, वृक्ष आदि स्थावर सम्पत्तियां हैं, उसको मरे हुए आज आठवाँ दिन है ओर उसका जीव पर्वतके ग्राम के गृहमण्डप में स्थित हे ।