Guru's AddaGuru's Adda

Yoga Vasistha — Mumukshu Vyavahara Prakarana (Conduct of the Seeker), Sarga 3, Verses 25–36

This page presents the Yoga Vasistha (Yogvashistha), Mumukshu Vyavahara Prakarana (Conduct of the Seeker), Sarga 3, verses 25–36 — the original Sanskrit shloka(s) with their Hindi meaning.

मुमुक्षु-व्यवहार प्रकरण · सर्ग 3 · श्लोक 25-30

संस्कृत श्लोक

ब्राह्मी द्वासप्ततिस्त्रैता आसीदस्ति भविष्यति । स एवान्यश्च लोकाश्च त्वं चाहं चेति वेदयहम् ॥ २५ ॥ क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः । संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः ॥ २६ ॥ अभूम व्यासवाल्मीकियुक्ता वयमनेकशः । अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ॥ २७ ॥ अभूम् वयमेवेमे सदृशा इतरे विदः । अभूम वयमेवेमे नानाकारा समाशयाऽ ॥ २८ ॥ भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः । भूयोऽपि भारतं नाम सेतिहासं करिष्यति ॥ २९ ॥ कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् । ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम् ॥ ३० ॥ वीतशोकभयः शान्तनिर्वाणो गतकल्पनः । जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः ॥ ३१ ॥ वित्तक्तधुवयःकर्मविद्याविज्ञानचेष्टितैः । समानि सन्ति भूतानि कदाचिन्नतु तानि तु ॥ ३२ ॥ क्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा । कदाचिदपि मायेयमित्थमन्तविवर्जिता ॥ ३३ ॥ यच्छतीयं विपर्यासं भूरिभूतपरम्परा । बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ॥ ३४ ॥ तेनैव संनिवेशेन तथान्येन पुनःपुनः । सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः ॥ ३५ ॥ आश्वस्तान्तःकरणः शान्तविकल्पः स्वरूपसारमयः । परमशमामृततृप्तस्तिष्ठति विद्वान्निरावरणः ॥ ३६ ॥

हिन्दी अर्थ

आठ बार उत्पन्न होकर महाभारतनामक इतिहास का प्रचार, वेदविभाग, कुलप्रथा का पालन और ब्रह्मा के अधिकार को प्राप्त कर विदेहमोक्ष को प्राप्त होगे